सिंघलप्रतिष्ठानम्

तैर्महाभागैः स्वजीवनकाले समारब्धानां धार्मिककार्याणां अनुवर्तनाय स्वर्गीयानां पि.पि.सिङ्घल् महाशयानां त्रिभिः पुत्रैः सिङ्घलप्रतिष्ठानम् (पञ्जीकृतसंस्था) प्रत्यष्ठाप्यत। चिरात् सिङ्घलप्रतिष्ठानं, विद्यार्थिभ्यः, विद्यालयेभ्यः, क्रीडाभ्यः, क्रीडकेभ्यः, विकलाङ्गेभ्यः, तदर्थपाठशालाभ्यः, इतरानेकविधसाङ्घिकाभिवृद्धिकार्येभ्यः धनसाहाय्यद्वारा अर्हाणि योग्यानि निमित्तानि प्रोत्साहयदास्ते।

श्रीमान् अशोकसिङ्घल जी, पि.पि.सिङ्घलमहोदयस्य अनुजः। सः पूर्णं सिङ्घलकुटुम्बं वेदसेवायाः दिशि प्राचोदयत् । अशोक जी महाभागः वैदिकाध्ययनानामुत्कटः उपष्टम्भकः आसीत्। वेदानां शक्तिः, बोधनानि, विज्ञानं, एवं प्रयोजनानि, तैरस्मद्दैनन्दिनजीवने र्निर्वोढुं शक्यां भूमिकां च सर्वे जानीयुरिति सः ऐच्छत्।

सिङ्घलप्रतिष्ठानद्वारा वेदविषयिणीं अस्मत्प्रतिनिबद्धतां वयं अनुवर्तयितुमिच्छामः। स्थानिकक्षेत्रस्तरे, प्रान्तस्तरे च वेदविद्यां प्रोत्साहयितुं वेदपण्डितान् सम्मानयितुं च बहूनि धार्मिकसंस्थानानि यद्यपि सन्ति, तथाऽपि जातीयस्तरे कश्चन पुरस्कारो नास्ति। अतः सिङ्घल प्रतिष्ठानं “भारतात्मा अशोक जी सिङ्घल वेदविद्यापुरस्कार” इतिनाम्ना जातीयस्तरे प्रथमान् वार्षिकपुरस्कारान् व्यवस्थापयितुं निरणयत्। इमे पुरस्काराः जातीयस्तरे वेदविद्यायां उत्कृष्टतां प्रदर्शयन्तः सन्तः, यशःकायानां अशोक जी सिङ्घल् महाभागानां नाम शाश्वतीकरिष्यन्ति।

प्रतिष्ठानम् प्रतिवर्षं त्रिभ्यः पुरस्कारान् वितरति-

  • आदर्शाध्यापकः
  • उत्कृष्टवेदविद्यार्थी
  • श्रेष्ठवेदपाठशाला

वयमाशास्महे यदिमे पुरस्काराः समाजहिताय वेदाध्ययनसरणिमनुसर्तुं इतोऽपि अधिकाधिकं वेदपाठशालाः अध्यापकांश्च प्रोत्साहयिष्यन्तीति।