अशोकजी सिंघलः

अशोकसिंघलमहाभागेन हिन्दुतायाः अग्रेसारणाय विहितं कार्यं सुविदितमेव तथापि तस्य वैदिकज्ञानं तथा वेदानां वैदिकविद्यानां च प्रचाराय तेन कृतं कार्यं तावत् अप्रसिद्धमेवास्ति।

अशोकमहाभागः कर्णपुरे राष्ट्रियस्वयंसेवकसंघस्य प्रचारकार्यरतः यदा आसीत् तदा वेदशास्त्रयोरद्वितीयाऽवबोधवता तद्गुरुदेवेन वेदं पठितुं प्रेरितः अभूत्।

संघविधिनिर्वहण-वेदपठनोत्साहयोर्मध्ये दोलायमानमनस्क: स एकदा तदानीन्तनसर्वसंघसञ्चालकान् गुरून् गोलवकरमहाभागान् समस्यापरिष्कारमार्गदर्शनमयाचत्। गुरुः गोलवकरमहाभागः यदा वेदविद्यार्जनतृष्णोपशमनमनोऽन्वमनुत तद्गुरुदेव: वेदविद्यार्जनं, महोन्नतं संघकार्यं च सहैव साधयितुमसूचयत्। अयमारम्भोऽभूत्तस्य सुदीर्घहिन्दुसेवाप्रस्थानस्य, राष्ट्रिस्वयंसेवकसंघान्तर्गतरूपेण विश्वहिन्दुपरिषदः स्थापनस्य च।

अशोकजीमहाभागः दृढं विश्वसिति स्म यत् केवलं वेदानां परिरक्षणप्रचाराभ्यामेव भारतीयसंस्कृतिः जीवितुं शक्नोतीति। अशोकजीमहाभागः त्रीणि विश्ववेदसम्मेलनानि समायोजयत्, येषामाद्यं १९९२ वर्षे अभूत्। इमानि समग्रप्रपञ्चाग्रगण्यवेदविद्वदधिवेशनरूपाणिसम्मेलनानि शतशः वेदविद्वद्वरेण्यान् एकत्र सङ्घटयितुं, हिन्दुजीवनसंस्कृत्योः कृते वेदानां योगदानं प्रकाशयितुं च उपकारकाणि आसन्। अस्य महाभागस्य नेतृत्वे नैकसंख्याकाः वेदपाठशालाः विश्वहिन्दुपरिषदा समारभ्यन्त, या अधुना अपि प्रचलन्ति। अशोकमहाभागस्य निवेदनानुसारं तस्य परिजनैः प्रयागस्थितस्य स्वपैतृकनिवासस्य एको भागः एतादृशाय एव वेदविद्यालयाय समर्पित आसीत्।