आदर्शवेदाध्यापकः
आत्मार्पणबुद्ध्या वेदाध्यापने प्रतिबद्धायादर्शभूताय वेदाध्यापकाय दीयमानोऽयं पुरस्कारः।
अस्य पुरस्कारान्तर्गते प्रमाणपत्रं, पदकं पञ्चलक्षरूप्यराशिश्च ₹ ५,००,००० प्रदीयते।
एतदर्थम् अधस्तनयोग्यता: अपेक्ष्यन्ते-
- सम्प्रति कस्यांश्चित् योग्यायां वेदपाठशालायाम् अध्यापक: अस्ति अथवा कुमाराध्यापक: एकलाध्यापकः वा अस्ति तथा च स्वस्य गुरुकुलं चालयति|
- पूर्णतया वेदानामध्यापने वैदिकशिक्षायाः प्रचारे च समर्पितः भवेत्।
- “द्वितीयस्तरस्य” न्यूनतमयोग्यताः अर्जिताः स्युः। (“कथमावेदनीयम्” इत्यत्र तालिका द्रष्टव्या )
- गतदशवत्सरेभ्यः अविच्छिन्नपूर्णकालिको वेदाध्यापको भवेत्।
- भवतः आयुः ‘१ अगस्त-२०२५’ दिनाङ्के पञ्चषष्टिवर्षात् अधिकं न स्यात्।
- यदि योग्ये वेदविद्यालये पाठयति चेत् न्यूनातिन्यूनाः पञ्चवेदविद्यार्थिनः भवेयुः तथा च यदि कुमाराध्यापकरूपेण अथवा एकाध्यापकवेदविद्यालये पाठयति तर्हि न्यूनातिन्यूनाः त्रयः वेदविद्यार्थिनः भवेयुः।
- गतत्रिषु वर्षेषु “भारतात्मा आदर्शवेदाध्यापकपुरस्कार:” प्राप्तः न स्यात्।
भारतात्मापुरस्कारे आवेदनाय अन्तिमदिनाङ्कः ३१ अगस्त २०२५ वर्तते।
आवेदनात् प्राक् इदं सुनिश्चितं कुर्वन्तु यत् भवन्तः आवेदन-सम्बन्धितान् सर्वान् योग्यता-मापदण्डान् ध्यानेन पठित्वा अवगताः।
भारतात्मापुरस्कारस्य उत्कृष्टवेदविद्यार्थी, आदर्शवेदाध्यापकः, उत्तमवेदविद्यालयश्च इति श्रेणीषु आवेदनाय अस्माकम् अन्तर्जालपुटोपरि प्रदत्तेन लिंक इत्यनेन भारतात्मापुरस्कारस्य अन्तर्जालीयं आवेदनं कर्तुमत्र नुदतु।
अन्तर्जालीयम् आवेदनं कर्तुं शक्यते।
अन्तर्जालपुटोपरि आगत्य सर्वप्रथमम् आवेदकेन पञ्जीकरणं करणीयम्। आवेदनात् प्राक् प्रदत्तदिशानिर्देशान् ध्यानेन पठित्वा अवगच्छन्तु।
पञ्जीकरणानन्तरम् “आवेदनम् – भागः – १” इति अन्तिमदिनाङ्कात् दशदिनानि प्रागेव पूरयित्वा समर्पयतु।
“आवेदनम् भागः – १” इति स्वीकृते सति अन्तिमदिनाङ्कात् प्राक् “आवेदनम् भागः – २” इति पुरयन्तु।
अन्तिमदिनाङ्कात् परं प्राप्तानि आवेदनानि अस्मिन् वर्षे चयनप्रक्रियायां समाविष्टानि न भविष्यन्ति।
चयनप्रक्रिया
सिंघलप्रतिष्ठानं प्रत्येकं श्रेण्याः विजेतारं चेतुमेकाम् उत्कर्षशालिनीं निष्पक्षप्रक्रियामाचरति। विजेतृणां निर्णयः चरणद्वयात्मिकया प्रक्रियया भविष्यति। प्रथमचरणे वेदज्ञानां समितिरेका प्राप्तावेदनपत्राणि (अध्यापकानां छात्राणाञ्च नामानि अज्ञातानि भविष्यन्ति) सम्यक् समीक्ष्य सम्भावितविजेतॄणां शोधनं कृत्वा एकां सूचीं निर्मापयिष्यति। एतच्छोधनप्रक्रिया आवेदकैः आवेदनपत्रेषु प्रदत्तसूचनाश्रिता भविष्यति। अतः आवेदनपत्रस्य पूर्णतया सम्यक्तया च परिपूरणम् निर्णायकमस्ति। एतदनु सम्भावितविजेतारः निर्णायकसमित्या (यस्यां सकलवेदानां प्रतिष्ठिताः विशेषज्ञाः भविष्यन्ति) विचारयिष्यन्ते। निर्णायकदलं विजेतॄणां अन्तिमनिर्णयात्पूर्वं चितानां विद्यालयानां भ्रमणं विधाष्यति तथा च चिताध्यापकछात्रैस्सह मेलिष्यति।
अर्हाणां वेदाध्यापकानां मूल्याङ्कनं स्वस्य वेदविद्यार्थिनाञ्च ज्ञानोत्कृष्टतायाः अधोनिर्दिष्टमानदण्डानाञ्च आधारेण भविष्यति-
- द्वितीयस्तरम् अतिरिच्य शैक्षणिकयोग्यताः उत्कृष्टता च, यथा- स्वशाखायां षडङ्गस्य भाष्यस्य लक्षणस्य च योग्यताः तथा च अन्यशाखानामध्ययनम् असाधरणवैदिकज्ञानं वा।
- भवदीयपूर्वतनाद्यतनवेदविद्यार्थिनां वेदाध्ययने अर्जिता उत्कृष्टता।
- मूलस्तरादुपरि वेदाध्ययनं कुर्वतां भवच्छात्राणाम् उत्कृष्टता।
- पूर्णकालिकाध्यापनाय प्रेरितानां वेदविद्यार्थिनां संख्या।
- वेदोक्तधर्माचरणपूर्वकं जीवनस्य यापनम्।
यदा भवन्तः पुरस्कारार्थम् आवेदनं कुर्वन्ति, तदा इदं सुनिश्चितं कुर्वन्तु यत् भवन्तः योग्यता-मापदण्डानां पूर्तिहेतवे आवश्यकान् सर्वान् अभिलेखान् प्रमाणरूपेण प्रस्तुतवन्तः।
सिंघलफाउण्डेशन इति संस्था प्रत्येकं श्रेण्या: विजेतारं चेतुम् एकां उच्चगुणवत्तायुक्तां निष्पक्षां गोपनीयचयनप्रक्रियाम् अङ्गीकरोति।
- विजेतॄणां निर्णय: त्रिचरणीयप्रक्रियायाः माध्यमेन भवति।
- प्रथमचरणे तावत् प्राथमिकस्तरे निर्धारितयोग्यतानां मापदण्डानाञ्च आधारेण प्राप्तावेदनानां समीक्षा क्रियते तथा च योग्यावेदनपत्राणि चीयन्ते।
- द्वितीयचरणे वेदविशेषज्ञानाम् एका अनुशंसासमितिः भवति। एषा समितिः समीक्षितावेदनपत्राणां (वेदविद्यार्थिनां, वेदाध्यापकानां, वेदविद्यालयानाञ्च नामानि अज्ञातानि भवन्ति।) पुनः समीक्षां करोति तथा च सम्भावितविजेतॄणामेकां सूचीं निर्माति।
- एतत् सूचीनिर्माणम् आवेदनपत्रे आवेदकैः प्रदात्तानां सूचनानाम् आधारेण भवति। अतः आवेदनपत्रं पूर्णरूपेण सम्यक्प्रकारेण च पूरणीयम् इति अतीव महत्वपूर्णं वर्तते।
- तदनन्तरं तृतीयचरणे वेदविशेषज्ञानाम् एका अन्या वरिष्ठनिर्णायकसमितिः (जूरी इति) भवति।
- अस्यां समित्यां सर्ववेदानां प्रतिष्ठितविशेषज्ञाः भवन्ति।
- अनुशंसासमित्या सम्भाव्यविजेतॄणां या सूची निर्मिता तदुपरि एषा वरिष्ठनिर्णायकसमितिः विचारयति।
- विजेतॄणां विषये अन्तिमनिर्णयस्य प्राक् वरिष्ठनिर्णायकसमितिः चयनितवेदविद्यालयानाम् निरीक्षणं करोति, चयनितवेदाध्यापकानां वेदविद्यार्थिनाञ्च साक्षात्कारं करोति।
भारतात्मपुरस्कारविजेतॄणां नामानि पुरस्कारवितरणसमये एव उद्घोषितानि भवन्ति, तावत्पर्यन्तं विजेतॄणां नामानि गोपनीयानि भवन्ति।