उत्कृष्टवेदविद्यार्थी

एषः पुरस्कारः तस्मै उत्कृष्टाय वेदविद्यार्थिने दीयते येन वेदाध्ययने उत्कृष्टता प्रस्तुता।

पुरस्कारान्तर्गते प्रमाणपत्रं, पदकं, लक्षत्रयात्मकरूप्यराशिश्च (₹ ३,००,०००) प्रदीयते।

अस्य पुरस्कारस्य योग्यतासिद्ध्यर्थं भवता अधोनिर्दिष्टाः सर्वे पात्रतामापदण्डाः अवश्यं पूरणीयाः सन्ति।

  • भवान् ३१ दिसम्बर २०२४ पर्यन्तम् अथवा सम्प्रति श्रुतिपरम्परायां योग्यवेदविद्यालयस्य व्यक्तिगतगुरोर्वा पूर्णकालिको वेदविद्यार्थी भवेत् इत्यावश्यकम्।
  • यदि भवान् श्रुतिपरम्परानुसारं वेदाध्ययनोपरान्तं वेदशास्त्रादिषु अध्ययनरत: अस्ति तथा च आजीविकार्थम् अन्योपक्रमे संलग्नः नास्ति चेत् आवेदनार्थं भवतः योग्यता वर्तते।
  • वेदाध्ययने मूलान्तादारभ्य भवतः अद्यतनवैदिकयोग्यतायाः स्तरस्य स्पष्टः अन्वेषणयोग्यः च अभिलेखः उपलब्धः भवेत्।
  • भवता प्रथमस्तरस्य न्यूनतमयोग्यताः अर्जिताः स्युः।
  • भारतात्मापुरस्कारस्य पूर्वविजेता – भवता विगतेषु त्रिषु वर्षेषु भारतात्मापुरस्कारः प्राप्तः न स्यात्।

भारतात्मापुरस्कारे आवेदनाय अन्तिमदिनाङ्कः ३१ अगस्त २०२५ वर्तते।

आवेदनात् प्राक् इदं सुनिश्चितं कुर्वन्तु यत् भवन्तः आवेदन-सम्बन्धितान् सर्वान् योग्यता-मापदण्डान् ध्यानेन पठित्वा अवगताः।

भारतात्मापुरस्कारस्य उत्कृष्टवेदविद्यार्थी, आदर्शवेदाध्यापकः, उत्तमवेदविद्यालयश्च इति श्रेणीषु आवेदनाय अस्माकम् अन्तर्जालपुटोपरि प्रदत्तेन लिंक इत्यनेन भारतात्मापुरस्कारस्य अन्तर्जालीयं आवेदनं कर्तुमत्र नुदतु।

अन्तर्जालीयम् आवेदनं कर्तुं शक्यते।

अन्तर्जालपुटोपरि आगत्य सर्वप्रथमम् आवेदकेन पञ्जीकरणं करणीयम्। आवेदनात् प्राक् प्रदत्तदिशानिर्देशान् ध्यानेन पठित्वा अवगच्छन्तु।

पञ्जीकरणानन्तरम् “आवेदनम् – भागः – १” इति अन्तिमदिनाङ्कात् दशदिनानि प्रागेव पूरयित्वा समर्पयतु।

“आवेदनम् भागः – १” इति स्वीकृते सति अन्तिमदिनाङ्कात् प्राक् “आवेदनम् भागः – २” इति पुरयन्तु।

अन्तिमदिनाङ्कात् परं प्राप्तानि आवेदनानि अस्मिन् वर्षे चयनप्रक्रियायां समाविष्टानि न भविष्यन्ति।

अर्हाणां वेदविद्यार्थिनाम् उत्कर्षस्य मूल्याङ्कनम् अधोनिर्दिष्टविषयायत्तम्-

  • वेदाध्ययने उत्कृष्टता या वैदिक-शिक्षायाः विभिन्न-स्तरेषु शैक्षणिकोपलब्धिभिः प्रमाणिता स्यात्।
  • वेदाध्ययने अविच्छिन्नता।
  • अधीतवेदस्य पारम्परिकपाठकरणे प्रवाह:।
  • वेदसम्बद्धविद्यान्तरेषु समासक्तिः।
  • वैदिकपरम्परानुगुणं भवदीयम् आचरणम्।
  • स्ववेदशाखां वेदग्रन्थान् वा अतिरिच्य अन्यवेदशाखानां ग्रन्थानाञ्च अध्ययनम्।

यदा भवन्तः पुरस्कारार्थम् आवेदनं कुर्वन्ति, तदा इदं सुनिश्चितं कुर्वन्तु यत् भवद्भिः योग्यता-मापदण्डानां पूर्तिहेतवे सर्वे आवश्यकाः अभिलेखाः प्रमाणरूपेण प्रस्तुताः।

सिंघलफाउण्डेशन इति संस्था प्रत्येकं श्रेण्या: विजेतारं चेतुम् एकां उच्चगुणवत्तायुक्तां निष्पक्षां गोपनीयचयनप्रक्रियाम् अङ्गीकरोति।

  • विजेतॄणां निर्णय: त्रिचरणीयप्रक्रियायाः माध्यमेन भवति।
  • प्रथमचरणे तावत् प्राथमिकस्तरे निर्धारितयोग्यतानां मापदण्डानाञ्च आधारेण प्राप्तावेदनानां समीक्षा क्रियते तथा च योग्यावेदनपत्राणि चीयन्ते।
  • द्वितीयचरणे वेदविशेषज्ञानाम् एका अनुशंसासमितिः भवति। एषा समितिः समीक्षितावेदनपत्राणां (वेदविद्यार्थिनां, वेदाध्यापकानां, वेदविद्यालयानाञ्च नामानि अज्ञातानि भवन्ति।) पुनः समीक्षां करोति तथा च सम्भावितविजेतॄणामेकां सूचीं निर्माति।
  • एतत् सूचीनिर्माणम् आवेदनपत्रे आवेदकैः प्रदात्तानां सूचनानाम् आधारेण भवति। अतः आवेदनपत्रं पूर्णरूपेण सम्यक्प्रकारेण च पूरणीयम् इति अतीव महत्वपूर्णं वर्तते।
  • तदनन्तरं तृतीयचरणे वेदविशेषज्ञानाम् एका अन्या वरिष्ठनिर्णायकसमितिः (जूरी इति) भवति।
  • अस्यां समित्यां सर्ववेदानां प्रतिष्ठितविशेषज्ञाः भवन्ति।
  • अनुशंसासमित्या सम्भाव्यविजेतॄणां या सूची निर्मिता तदुपरि एषा वरिष्ठनिर्णायकसमितिः विचारयति।
  • विजेतॄणां विषये अन्तिमनिर्णयस्य प्राक् वरिष्ठनिर्णायकसमितिः चयनितवेदविद्यालयानाम् निरीक्षणं करोति, चयनितवेदाध्यापकानां वेदविद्यार्थिनाञ्च साक्षात्कारं करोति।

भारतात्मपुरस्कारविजेतॄणां नामानि पुरस्कारवितरणसमये एव उद्घोषितानि भवन्ति, तावत्पर्यन्तं विजेतॄणां नामानि गोपनीयानि भवन्ति।