श्रेष्ठपाठशाला

वेदशिक्षणे सर्वातिशयियोगदानं कृतवतः वेदविद्यालयस्य कृते दीयमानोऽयं पुरस्कारः|

अत्र प्रमाणपत्रं, स्मारिका, पदकं, सप्तलक्षरूप्यराशिश्च ७,००,००० भवेत्|

अर्हतायाः कृते अधोनिर्दिष्टांशा: आवश्यकाः भवन्ति-

  • केन्द्र/राज्यसर्वकारात्, धार्मिकसंस्थायाः, देवालयसंस्थायाः वा प्राप्तानुदानम् अथवा व्यक्तिगतरूपेण एकाध्यापकेन पोषितं गुरुकुलम्|
  • सनातनसाम्प्रदायपद्धत्या श्रुतिबोधनपरं गुरुकुलम्|
  • गतविंशतिवत्सरेभ्यः अविछिन्नं प्रचाल्यमानम्|
  • यदि विद्यालयः सर्वकारेण कयाचित् संस्थया वा अनुदानं प्राप्नोति चेत् विद्यालये न्यूनातिन्यूनं एकः अध्यापकः पञ्चछात्राश्च भवेयुः, यदि एकलाध्यापकस्य गुरुकुलम् अथवा कुमाराध्यापकः वर्तते चेत् न्यूनातिन्यूनं त्रयः छात्राः अपेक्षिताः|
  • विद्यालयेन पूर्वं “भारतात्मा-उत्तमवेदविद्यालयपुरस्कारः” न विजितः स्यात्|

आवेदनपत्रप्राप्तेः अन्तिमतिथिः – १५/०६/२०२० वर्तते। आवेदनपत्रं जूनमासस्य पञ्चदशः-दिनाङ्कात् पूर्वं सिंघलप्रतिष्ठानस्य पार्श्वे प्राप्नुयात्। अस्याः तिथेः पश्चात् प्राप्तावेदनपत्रोपरि 2020 पुरस्काराणां कृते विचारः न भविता।

प्रत्येकं श्रेण्याः कृते आवेदनपत्राणि अस्माकम् www.bharatatmapuraskar.org अन्तर्जालस्थानतः स्वीकर्तुं शक्यते। आवेदनपत्रम् +91 7357658777 इति दूरध्वनिक्रमाङ्कोपरि स्वनाम्ना सह स्वपत्रसङ्केतस्य सन्देशस्य प्रेषणे सति डाकमाध्यमेनापि प्राप्तुं शक्यते।

इदं सुनिशि्चतं कुर्याद् यद् योग्यतामानदण्डानां पूर्तये भवद्भिः स्वाङ्कतालिका-प्रमाणपत्र-प्रलेखादीनि साक्ष्यरूपेण संलग्नीकृतानि स्यु:।

भवद्भिः आवेदनपत्रं हस्तलेखेन अथवा “माइक्रोसॉफ्टवर्ड” इत्स्य प्रयोगेण पूरयितुं शक्यते । यदि भवन्तः आवेदनपत्रम् ईमेलमाध्यमेन प्रेषयन्ति चेत् केवलं .pdf-रूपेणेव प्रेषयन्तु, न तु .doc,.docx

पूर्णरूपेण पूरितम् आवेदनपत्रं डाकमाध्यमेन “सिंघल फाउंडेशन द्वारा सिक्योर मीटर्स लिमिटेड, प्रतापनगर इण्डस्ट्रियल एरिया, उदयपुरम् ३१३००३” इति पत्रसंकेतोपरि प्रेषयन्तु अथवा

भवन्तः आवेदनपत्रसहितसमस्तप्रलेखान् स्केनकृत्वा PDF प्रारूपमध्ये ईमेल कुर्वन्तु-applications@bharatatmapuraskar.org

चयनप्रक्रिया

सिंघलप्रतिष्ठानं प्रत्येकं श्रेण्याः विजेतारं चेतुमेकाम् उत्कर्षशालिनीं निष्पक्षप्रक्रियामाचरति। विजेतृणां निर्णयः चरणद्वयात्मिकया प्रक्रियया भविष्यति। प्रथमचरणे वेदज्ञानां समितिरेका प्राप्तावेदनपत्राणि (अध्यापकानां छात्राणाञ्च नामानि अज्ञातानि भविष्यन्ति) सम्यक् समीक्ष्य सम्भावितविजेतॄणां शोधनं कृत्वा एकां सूचीं निर्मापयिष्यति। एतच्छोधनप्रक्रिया आवेदकैः आवेदनपत्रेषु प्रदत्तसूचनाश्रिता भविष्यति। अतः आवेदनपत्रस्य पूर्णतया सम्यक्तया च परिपूरणम् निर्णायकमस्ति। एतदनु सम्भावितविजेतारः निर्णायकसमित्या (यस्यां सकलवेदानां प्रतिष्ठिताः विशेषज्ञाः भविष्यन्ति) विचारयिष्यन्ते। निर्णायकदलं विजेतॄणां अन्तिमनिर्णयात्पूर्वं चितानां विद्यालयानां भ्रमणं विधाष्यति तथा च चिताध्यापकछात्रैस्सह मेलिष्यति।

पात्रविद्यालयस्य मूल्याङ्कनम् अधस्तनांशान् आधारीकरोति|

  • एतत्पाठशालाध्यायिभिः विद्यार्थीभिः अर्जितवेदाध्ययनविषयिणी उत्कृष्टता|
  • विद्यालयस्य अध्यापकानां योग्यताः अनुभवश्च|
  • प्रदत्तवैदिकशिक्षायाः (मूलान्ताद् लक्षण-भाष्यादिपर्यन्तम्) गहनता|
  • विद्यालयेन उत्पादितानां वेदाध्यापकानां गुणवत्ता, संख्या च|
  • नैकवेदसंहितानां तद्विकृतीनां शास्त्राणाञ्च बोधनम्|

आवश्यकानि सर्वाणि योग्यताप्रत्यायकानि पत्राणि योजनीयानि|