विजेतृनामानि घोषयन्तः अत्यन्तं मुदिता: वयम्| सर्वेभ्यः विजेतृभ्यः वर्धापनानि शुभाशयाः च|
प्रथम: पुरस्कारवितरणसमारोह: ०५/१०/२०१७ दिनाङ्के एन.डी.ऍम.सी. सभागारे, नवदेहल्यां अभवत्|

श्रेष्ठपाठशाला

Ved-school6.jpg
श्रीमन्त: वी. राजगोपालघनपाठीमहाभागाः
पत्रसङ्केतः- रामपुरीखुर्द, त.-पाथरी, जि.-परभणी, ४३१५०३.
संपर्कसूत्रम्- श्रीपाठकः-९९२२६९५९३०

एकमात्रेण उद्देश्येन पूज्यस्वामिगोविन्दगिरीजीमहाराजस्य प्रेरणया १९९० तमे वर्षे स्थापितेन महर्षिवेदव्यासप्रतिष्ठानेन सञ्चालितस्य श्रीसमर्थवेदविद्यालयस्य स्थापना श्रीगोदावरीतीरे ग्रामीणक्षेत्रे ४ जुलाई-१९९३ दिनाङ्के(स्वामिविवेकानन्दस्मृतिदिवसे) महामहोपाध्याय- ब्रह्मश्री-स्व.-यज्ञेश्वरशास्त्रीजीकस्तुरेमहाभागानां तपः पूताभ्यां करकमलाभ्यां अभवत्|

अस्य विद्यालयस्य स्थापनायाः पूर्वं महाराष्ट्रे एकोऽपि सामवेदी अथवा अथर्ववेदी नासीत्|

विद्यालस्य सर्वश्रेष्ठं योगदानमस्त्येतद् यद् सम्प्रति महाराष्ट्रे सामवेदस्य अथर्ववेदस्य च विद्वांसः समुपलभ्यन्ते|

एषा वेदप्रतिष्ठा विद्यालयस्यास्य प्रमुखं योगदानम्|सम्प्रत्यत्र चतुर्णां वेदानाम् उपलब्धानां सर्वासां शाखानाम् अध्यापनं प्रचलति|

अस्य वेदवियालयस्य नैके अध्यापकाः छात्राश्च एतावत्पर्यन्तं बहुभि: राष्ट्रस्तरीयसंमानैः पुरस्कारैश्च सभाजिताः| प्रायः द्विशतादपि अधिकं पूर्वच्छात्रा: वेदाध्ययनं सुष्ठुं कृत्वा अध्यापन-पौरोहित्य-कथा-ज्योतिषादिक्षेत्रेषु सुस्थापिताः भूत्वा सफलतापूर्वकं जीवनयापनं कुर्वन्ति समाजस्य सांसकृतिकनेतृत्वञ्च वहन्ति|

२००२ तमे वर्षे कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयेन(रामटेक) एषः वेदविद्यालयः अनुदानित-वेदविद्यालयस्य स्वरूपे आगतः| पुनश्च २०१२ तमे वर्षे महर्षिसान्दीपनिराष्ट्रीयवेदविद्याप्रतिष्ठानेन(उज्जैन) एषः वेदविद्यालयः अनुदानितवेदविद्यालयस्य स्वरूपे स्थायिसंलग्णतां प्राप्तोऽभवत्| वर्षेस्मिन् एषः वेदविद्यालयः स्वरजतजयन्तीवर्षंम् आयोजयति|

आदर्शवेदाध्यापकः

DSC_0089 (2)
श्रीमन्त: वी. राजगोपालघनपाठीमहाभागाः
पितृनाम- श्रीमन्त: एन. वैद्यनाथशास्त्रिमहाभागाः
भार्यानाम- श्रीमती अन्नपूर्णी
निवाससंकेतः- वेदभवनम् , नवीनसंख्या-188, TT कृष्णमाचार्यमार्गः, अलवरपेट, चेन्नई, तमिलनाडु

चेन्नई, तमिलनाडु वास्तव्याः श्रीमन्तः वी.राजगोपालघनपाठीवर्या: कृष्णयजुर्वेदस्य (सलक्षणघनान्तस्य) ,श्रौतस्मार्तकर्मस्य, वेदभाष्यस्य, न्यायस्य, मीमांसायाः, वेदान्तस्य, ज्यौतिषस्य च सार्धं वाणिज्यस्य, संघणकयन्त्रस्य च विद्वान्सः सन्ति| राजगोपालवर्या: वेदविहितजीवनाचराणं कुर्वन्तः निरन्तरं स्वकठोर परिश्रमेण अनेकेषां ग्रन्थानाम् अध्ययन-मनन-चिन्तन-पुरस्सरं नवीनग्रन्थानां प्रकाशनं कृतवन्तः सन्ति| भवन्तः सीताराम इति गुरुकुलं संचालयन्तः विगतपञ्चविशतिवर्षेभ्यः वेदाध्यापने समर्पिता:| भवतां कठोरतपश्चर्याया अनेकेषां वैदिकविदुषां सृजनमभवत्रा| जगोपालवर्या: पञ्चाधिकभाषाणां ज्ञातारः सन्ति| राजगोपालवर्या: स्वकठोरतपेन वाराणसी-संस्कृत-अकादमीतः वेदविद्या अलङ्करणम् (१९८६), श्रीगणपतिसच्चिदानन्द-आश्रममैसूरतः प्रज्ञाचक्रपाणी-पुरस्कारेण च सहितं बहुभिः पुरस्कारैः सभाजितः| राजगोपालवर्या: वेदक्षेत्रे उल्लेखनीय-कार्याणि कुर्वाणा स्व-महत्वपूर्णयोगदानं प्रददति |

उत्कृष्टवैदिकच्छात्रः

IMG-20170925-WA0001
श्रीसागरशर्मा
पितृनाम- श्रीमान् राजेशशर्मा
मातृनाम-श्रीमती संगीता
निवाससंकेतः-बीड, नागपुरम् , महाराष्ट्रम्
अधीता वेदशाखा-शुक्लयजुर्वेदस्य माध्यन्दिनशाखा
पाठशाला-श्रीसद्गुरुनिजानन्दमहाराजवेदविद्यालय: आळंदी, भोंसालावेदशास्त्रमहाविद्यालयश्च (संप्रति)
गुरुनाम-वेदमूर्ति-भगवानजोशी, वेदमूर्ति-गोवीन्दशास्त्रिपत्राळे

श्रीसागरशर्मणः बीडनगरे, नागपुरजनपदे, महाराष्ट्रे निवसन्ति| एतेषां पितृचरणा कार्यालयलिपिकाराः माता च गृहिणी वर्तते| इमे महाभागा: श्रीसद्गुरुनिजानन्दमहाराजवेदविद्यालये वेदमूर्ति-भगवानजोशीगुरो: सानिध्ये शुक्लयजुर्वेदस्य माध्यन्दिनशाखायां संहिताध्ययनं पूर्णं कृत्वा वेदमूर्ति-गोवीन्दशास्त्रिपत्राळेगुरो: सानिध्ये पद-क्रम-जटा-घनपाठं, शथपथब्राह्मणं, याज्ञवल्क्यशिक्षायाञ्चाधीतय वर्तमाने श्रौत्रसूत्र-गृह्यसूत्रादीनाम् अध्ययने निमग्नाः सन्ति| एते त्रिकालसन्ध्यावन्दनम्, अग्निकर्मं, वेदविहीतजीवनाचरणञ्च कुर्वन्तः वेदशास्त्रस्य अध्ययन-मनन-चिन्तनपरम्परायाम् साधनारता: सन्ति| एते आदर्शवेदाध्यापकरूपेण संस्कृतिसेवां राष्ट्रसेवाञ्च कर्तुं वाञ्छन्ति|