वेदमूर्तिः श्री-नोरि-केदारेश्वर-शर्मा/strong>
जन्मदिनाङ्कः– २९ अगस्तमासः २००१
निवासस्थानम्– तेनाली, आन्ध्रप्रदेशः
पितुः नाम– स्वर्गीयः श्री-मल्लेश्वरशर्मा
मातुः नाम– श्रीमती वाणीशर्मा
वेद–वेदशाखा च– कृष्णयजुर्वेदः (तैत्तिरीयशाखा)
गुरूणां नामानि– ब्रह्मश्री-वेङ्कटराम-घनपाठी, श्री-श्रीराम-घनपाठी, ब्रह्मश्री-हरिहरन-घनपाठी, श्री-बिल्वेशशास्त्री-महाभागाः च

श्री–नोरिकेदारेश्वरवर्याः नोरि–नाम्नि ब्राह्मणकुले समुत्पन्नाः सन्ति। एते यदा सप्तवर्षीया: आसन् तदा एतत्पितृचरणाः शिवलोकं गताः।

श्री-केदारेश्वरशर्मणां वेदाध्ययनं तेलङ्गानाप्रान्तस्य भाग्यनगरस्थिते श्री-शङ्कर-गुरुकुल-वेदविद्यालये (लब्ध-भारतात्मा-उत्तम-वेदविद्यालय-पुरस्कारः) अभवत्। तत्र एतैः ब्रह्मश्री-वेङ्कटराम-घनपाठी ब्रह्मश्री-हरिहरन-घनपाठी च इत्यनयोः गुरुचरणयोः सान्निध्ये कृष्णयजुर्वेदस्य तैत्तिरीय-शाखायाः घनान्ताध्ययनं पूर्णं कृतम्। केदारेश्वरमहाभागाः घनान्ताध्ययनं समाप्य रघुवंशादीनां संस्कृत-साहित्यिक-ग्रन्थानाम् अथ च प्रातिशाख्य-वर्णक्रमादिविशिष्टग्रन्थानाम् अध्ययने प्रवृत्ता: अभवन्। स्वाध्यायक्रमस्य नैरन्तर्यं कृत्वा एतै: गुरूणां श्री-श्रीराम-घनपाठीभागानां सान्निध्ये एव वेदषडङ्गानाम् अध्ययनम् सम्पादितम्। तदनन्तरं श्री-बिल्वेशशास्त्रीमहाभागस्य सान्निध्ये सम्पूर्णव्याकरणाध्ययनं सुसाधितम्।

भवन्तः श्री-काञ्ची-वेदवेदान्त-शास्त्र-सभया आयोजितायां तेनाली-परीक्षायां प्रथमश्रेण्याम् उत्तीर्णाः भूत्वा स्वस्वाध्यायस्य परिचयं दत्तवन्तः। भवताम् अनुजौ अपि घनान्ताध्ययनं समाप्य वैदिक-शास्त्राणाम् अध्ययनं कुर्वन्तौ स्तः।

सम्प्रति केदाश्वरवर्याः श्रीराम-घनपाठीनः सान्निध्ये एव वेदभाष्याध्ययनं कुर्वन्तः सन्ति। भवन्तः वेदविद्यायाः नित्यसाधनायै कृतदृढसङ्कल्पाः वर्तन्ते तथा च आजीवन वेदविद्यायाः अध्ययन-अध्यापन-अनुसन्धान-कार्येषु स्वकीयं सम्पूर्णजीवनं समर्पयितुं सदिच्छां मनसि धारयन्ति। भगवान् वेदनारायणः भवतां पवित्र-वेद-सेवायाः सङ्कल्पं सम्पन्नं कुर्वन्तु इति प्रार्थयामः।

भवतां स्व-उत्कृष्ट-वेदाध्ययनस्य कृते २०२५ इति वर्षरस्य “भारतात्मा-अशोकजी-सिंघल-उत्कृष्ट-वेदविद्यार्थी-पुरस्कारः” इति पुरस्कारेण सुशोभिताः कृताः।