श्रीमुनिकुलब्रह्मचर्याश्रमवेदसंस्थानं राजस्थानस्य भीलवाड़ाजनपदे  अरावलीपर्वतश्रृंखलाया: उपत्यकासु स्थिते एकस्मिन् वरुन्दनीनामके ग्रामे स्थितम् अस्ति| विश्वधरोहररूपेण विख्यातानां भारतीयसस्ंकृते: आधारभूतानाञ्च वेदानां संरक्षणार्थं ग्रामीणक्षेत्रे उच्चाध्ययनस्य निःशुल्कव्यवस्थाकरणार्थञ्च प्रायेण १३९ वर्षपूर्वं संतश्रीनारायणदासेन एकस्याः संस्कृत पाठशालया: रूपेण वर्त्तमानस्य वेदविद्यालयस्य स्थापना कृता| १९८५ ख्रीष्टाब्दे डॉ॰बदरीनारायणपञ्चोली महाभागानां नैकैः प्रयासै: वेदविद्यालयाय नवजीवनं प्रदत्तमासीत्|

वेदविद्यालये चतुर्णां वेदानां विभिन्नानां  शाखानां(ऋग्वेदस्य शाकलशाखा, शुक्लयजुर्वेदस्य माध्यन्दिनी-काण्वशाखे, सामवेदस्य-राणायनी-कौथुमशाखे, अथर्ववेदस्य शौनक-पैप्पलादशाखे च) अध्ययनाध्यापनं भवति। अस्यैव सार्धं राज्स्थानमाध्यमिक-शिक्षा-बोर्डमाध्यमेन षष्ठीकक्षात: द्वादशीकक्षापर्यन्तं वरीष्ठोपाध्यायसंस्कृतविद्यालयमपि प्रचलति।

अस्मिन्नेव वेदविद्यालये उच्चाध्ययनाय शास्त्रिपाठ्यक्रमः(बी.ए.) आचार्यपाठ्यक्रमः(एम.ए.) च पाठ्येते|

संस्थानात् १९८५ ख्रीष्टाब्दात् एतावत्पर्यन्तं प्रायेण १२०० छात्राः वेदाध्ययनं कृतवन्तः। अत्रपठिताः छात्राः अद्यत्वे देशस्य विभन्नेषु कोणेषु सेवारताः सन्ति।

संस्थानस्य उत्कृष्टसेवाप्रदात्रे प्रथमाध्यापकाय श्रीरामजीलालपालीवाल-महाभागाय तत्कालीनराज्यपालेन एम.चेन्नारेड्डीमहाभागेन मधुसूदन-ओझापुरस्कार: समर्पितः आसीत्।

इदञ्च वेदविद्यालयं २०१९तमवर्षस्य भारतात्मा-अशोकजीसिंघल-वैदिकपुरस्कारस्य उत्तमवेदविद्यालयश्रेण्यां पुरस्कारेण सभाजितमस्ति|