नाम– श्री आर . वेंकटरमण घनपाठी

पितृनाम– श्री डी.एच.रंगनाथ-अय्यर:

मातृनाम– श्रीमती मीनाक्षीअम्माळ्

गुरुनाम– स्व.ब्रह्मश्रीआर.एस.नारायणश्रौतिगल:

जन्मस्थानम्– चेन्नई (मद्रास), तमिलनाडु

वर्तमाननिवास:– मल्लिकार्जुननगरम्, मलकाजगिरि, हैदराबाद ( तेलंगाना )

श्रीआर .वेंकटरामघनपाठिमहाभागाः  कृष्णयजुर्वेदस्य मूर्धन्या: विद्वांसः सन्ति| वैदिकशिक्षायाः प्रारम्भिकचरणे श्रीनिवासशास्त्रिगल-रामस्वामिशर्मणो: गुर्वोः सानिध्ये भवतां कृष्णयजुर्वेदस्य घनान्तं यावत् अध्ययनमभवत्। एतदनन्तरं भवद्भिः ब्रह्मश्रीडोंगरेशास्त्रिणः तथा च  ब्रह्मश्रीसन्निदानम्लक्ष्मीनारायण-अवधानिन: सानिध्ये वेदभाष्यस्य अन्येषां  शास्त्राणाञ्च अध्ययनं जातम्।

अध्ययनोपरान्तं भवद्भिः १९८४ तमे वर्षे काञ्चीकामकोटिपीठस्य श्रीपरमाचार्यस्य मार्गनिर्देशने हैदराबादनगरे श्रीशंकरगुरुकुलवेदपाठशाला स्थापिता। तदारभ्य भवन्तः  वैदिकशिक्षाक्षेत्रे सेवां कुर्वाणा: सन्ति। अस्मिन् गुरुकुले देशस्य विभिन्नेभ्यः भागेभ्यः आगताः शताधिकाः विद्यार्थिनः क्रमान्तं घनान्तं च यावत् प्रशिक्षणं प्राप्तवन्तः सन्ति| सम्प्रति १३५ विद्यार्थिन: पाठशालायाम् अध्ययनरताः सन्ति।

भवतां वेदपाठसंरक्षणे महत्त्वपूर्णं योगदानं वर्तते| भवद्भिः स्तोत्राणि परम्परागतरूपेणापि व्यवस्थितानि| भवताम् अनेकानि स्तोत्राणि बहव: शास्त्रीयग्रन्थाश्च प्रकाशिताः सन्ति। अस्मिन्नेव प्रसङ्गे ‘शतस्तोत्ररत्नाकर:’ ‘मूकपंचशती’ प्रामुख्येण उल्लेखनीयौ स्तः। एते श्रीवेंकटरामघनपाठिमहाभागाः  हैदराबदस्थितायाः श्रीशंकराचार्यगुरुकुलवेदपाठशालायाः संस्थापका:  व्यवस्थापकाश्च सन्ति।