नाम– श्रीअजयजोशी

पितृनाम– श्रीरामकृष्णजोशी

मातृनाम– श्रीमती शिलाबाई

जन्मदिनाङ्कः– ०१-०१-२०००

गुरुनाम– ब्रह्मश्रीवेदमूर्तिचिन्तलपल्लि-उमाशंकरघनपाठी

जन्मस्थानम्– कंगटि, तेलङ्गाना

वर्तमाननिवास:– संगारेड्डी, तेलङ्गाना

श्रीअजयजोशी ऋग्वेदस्य विद्यार्थी अस्ति| अस्य महाभागस्य प्रारम्भिकी शिक्षा कंगटिनामके ग्रामे सम्पन्ना| एषः प्रारम्भिकशिक्षायाः अनन्तरं श्रीगुरुमदनानन्दसाङ्गवेदविद्यालये, तोगुटाग्रामे वेदमूर्तिप्रमीळजीगुरो: सानिध्ये ऋग्वेदसंहितायाः अध्ययनम् अकरोत्| एतदनन्तरम् अनेन हैदराबादनगरे श्रीशारदाम्बावेदनिलये, वेदमूर्तिचिन्तलपल्लि-उमाशंकरघनपाठिन: गुरोः चरणयो: ऋग्वेदसंहितायाः पद-क्रम-जटा-घनविकृतीनाम् अधीतिः कृता| अद्यत्वे  अयं वेदाध्येता लक्षणग्रन्थानाम् अध्ययनाय संकल्पित: वर्तते|

२०१९ तमवर्षस्य “भारतात्मा-अशोकजीसिंघल-वैदिकपुरस्कार:-उत्कृष्टवेदविद्यार्थी” अस्मै एव प्रदत्त: वर्तते|