नाम– श्रीगगनकुमारचट्टोपाध्याय:

पितृनाम– स्व. श्रीतारापदचट्टोपाध्याय:

मातृनाम– श्रीमती सतीरानीचट्टोपाध्याय:

गुरुनाम– स्व. ब्रह्मश्रीआर.एस.नारायणश्रौतिगल:

जन्मस्थानम्– मेदिनीपुरम् (पश्चिम बङ्गाल)

वर्तमाननिवास:- श्रीपट्टाभिरामशास्त्रीवेदमीमांसानुसन्धानकेन्द्रम्, हनुमानघाट, वाराणसी

 

आचार्या: श्रीगगनकुमारचट्टोपाध्यायाः सामवेदस्य मूर्धन्याः विद्वांस: सन्ति| भवद्भि: वेदभवनकोलकातातः ब्रह्मश्रीआर.शंकरनारायणश्रोतिगलगुरूणां सानिध्ये सामवेदस्य कौथुमशाखाया: रहस्यान्तं यावत् अध्ययनं कृतम्| अग्रिमाध्ययनक्रमे भवन्तः तिरुमलादेवस्थानतिरुपतितः १९७५ तमे वर्षे वेदभाष्यस्य अध्ययनं कृत्वा कामेश्वरसिंहदरभङ्गाविश्वविद्यालयतः १९९० तमे वर्षे सामवेदाचार्योपाधिं प्राप्तवन्तः|

 

भवन्तः १९७७ तः १९८५ ख्रीष्टाब्दपर्यन्तं बिहारस्थिते श्रीश्यामाचरणविद्यापीठे पुनश्च सन् १९८५ तः से १९९५ ख्रीष्टाब्दपर्यन्तं बिहारराज्ये भागलपुरे श्रीश्यामाचरणविद्यापीठ-उच्चमाध्यमिकसंस्कृतविद्यालये पाठितवन्तः|  १९९५ख्रीष्टाब्दात्  एतावत्पर्यन्तं भवन्तः वाराणस्यां श्रीपट्टाभिरामशास्त्रीवेदमीमांसानुसंधानकेन्द्रे वेदाध्यापनेन सह प्रधानाचार्यपदं अलङ्कुर्वाणा: सन्ति|

 

भवतां “सामवेद-कौथुमशाखीयगानार्थिकपदस्तोभः” नामकग्रन्थ: प्रकाशित: वर्तते|

 

भवद्भि: शताधिका सामवेदीया शिष्या: पाठिता: बहवश्च सामवेदीयशोधछात्रा: निर्देशिताः सन्ति| एवं भवतां सकलमेव जीवनं वेदसेवायां समर्पितमस्ति|

 

भवन्तः अनेकेषु वैदिकसम्मेलनेषु संगोष्ठीषु वैदिकपरीक्षासु च भागं अगृह्णन्|

उत्कृष्टवेदसेवायाम् उत्तरप्रदेशसंस्कृतसंस्थानेन १९९५तमवर्षस्य  वेदपण्डितपुरस्कारोऽपि एतेभ्यः प्राप्त: आसीत्| “वेदरत्नाकर:”, “विद्वत्सम्मानम्” चेति पुरस्काराभ्यामपि एते सभाजिता:|

 

२०१९ तमे वर्षे च वे.मू.श्रीगगनकुमारचट्टोपाध्यायमहाभागाय  “भारतात्मा-अशोकजीसिंघल-वैदिकपुरस्कार:-आदर्श वेदाध्यापक:” समर्पितः वर्तते|