श्रीसमर्थवेदविद्यालयेन
पत्रसङ्केतः- रामपुरीखुर्द, त.-पाथरी, जि.-परभणी, ४३१५०३.
संपर्कसूत्रम्- श्रीपाठकः-९९२२६९५९३०

एकमात्रेण उद्देश्येन पूज्यस्वामिगोविन्दगिरीजीमहाराजस्य प्रेरणया १९९० तमे वर्षे स्थापितेन महर्षिवेदव्यासप्रतिष्ठानेन सञ्चालितस्य श्रीसमर्थवेदविद्यालयस्य स्थापना श्रीगोदावरीतीरे ग्रामीणक्षेत्रे ४ जुलाई-१९९३ दिनाङ्के(स्वामिविवेकानन्दस्मृतिदिवसे) महामहोपाध्याय- ब्रह्मश्री-स्व.-यज्ञेश्वरशास्त्रीजीकस्तुरेमहाभागानां तपः पूताभ्यां करकमलाभ्यां अभवत्|

अस्य विद्यालयस्य स्थापनायाः पूर्वं महाराष्ट्रे एकोऽपि सामवेदी अथवा अथर्ववेदी नासीत्|

विद्यालस्य सर्वश्रेष्ठं योगदानमस्त्येतद् यद् सम्प्रति महाराष्ट्रे सामवेदस्य अथर्ववेदस्य च विद्वांसः समुपलभ्यन्ते|

एषा वेदप्रतिष्ठा विद्यालयस्यास्य प्रमुखं योगदानम्|सम्प्रत्यत्र चतुर्णां वेदानाम् उपलब्धानां सर्वासां शाखानाम् अध्यापनं प्रचलति|

अस्य वेदवियालयस्य नैके अध्यापकाः छात्राश्च एतावत्पर्यन्तं बहुभि: राष्ट्रस्तरीयसंमानैः पुरस्कारैश्च सभाजिताः| प्रायः द्विशतादपि अधिकं पूर्वच्छात्रा: वेदाध्ययनं सुष्ठुं कृत्वा अध्यापन-पौरोहित्य-कथा-ज्योतिषादिक्षेत्रेषु सुस्थापिताः भूत्वा सफलतापूर्वकं जीवनयापनं कुर्वन्ति समाजस्य सांसकृतिकनेतृत्वञ्च वहन्ति|

२००२ तमे वर्षे कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयेन(रामटेक) एषः वेदविद्यालयः अनुदानित-वेदविद्यालयस्य स्वरूपे आगतः| पुनश्च २०१२ तमे वर्षे महर्षिसान्दीपनिराष्ट्रीयवेदविद्याप्रतिष्ठानेन(उज्जैन) एषः वेदविद्यालयः अनुदानितवेदविद्यालयस्य स्वरूपे स्थायिसंलग्णतां प्राप्तोऽभवत्| वर्षेस्मिन् एषः वेदविद्यालयः स्वरजतजयन्तीवर्षंम् आयोजयति|