श्री सागर शर्मा
पितृनाम- श्रीमान् राजेशशर्मा
मातृनाम-श्रीमती संगीता
निवाससंकेतः-बीड, नागपुरम् , महाराष्ट्रम्
अधीता वेदशाखा-शुक्लयजुर्वेदस्य माध्यन्दिनशाखा
पाठशाला-श्रीसद्गुरुनिजानन्दमहाराजवेदविद्यालय: आळंदी, भोंसालावेदशास्त्रमहाविद्यालयश्च (संप्रति)
गुरुनाम-वेदमूर्ति-भगवानजोशी, वेदमूर्ति-गोवीन्दशास्त्रिपत्राळे

श्रीसागरशर्मणः बीडनगरे, नागपुरजनपदे, महाराष्ट्रे निवसन्ति| एतेषां पितृचरणा कार्यालयलिपिकाराः माता च गृहिणी वर्तते| इमे महाभागा: श्रीसद्गुरुनिजानन्दमहाराजवेदविद्यालये वेदमूर्ति-भगवानजोशीगुरो: सानिध्ये शुक्लयजुर्वेदस्य माध्यन्दिनशाखायां संहिताध्ययनं पूर्णं कृत्वा वेदमूर्ति-गोवीन्दशास्त्रिपत्राळेगुरो: सानिध्ये पद-क्रम-जटा-घनपाठं, शथपथब्राह्मणं, याज्ञवल्क्यशिक्षायाञ्चाधीतय वर्तमाने श्रौत्रसूत्र-गृह्यसूत्रादीनाम् अध्ययने निमग्नाः सन्ति| एते त्रिकालसन्ध्यावन्दनम्, अग्निकर्मं, वेदविहीतजीवनाचरणञ्च कुर्वन्तः वेदशास्त्रस्य अध्ययन-मनन-चिन्तनपरम्परायाम् साधनारता: सन्ति| एते आदर्शवेदाध्यापकरूपेण संस्कृतिसेवां राष्ट्रसेवाञ्च कर्तुं वाञ्छन्ति|