श्रीमन्त: वी. राजगोपालघनपाठीमहाभागाः
पितृनाम- श्रीमन्त: एन. वैद्यनाथशास्त्रिमहाभागाः
भार्यानाम- श्रीमती अन्नपूर्णी
निवाससंकेतः- वेदभवनम् , नवीनसंख्या-188, TT कृष्णमाचार्यमार्गः, अलवरपेट, चेन्नई, तमिलनाडु

चेन्नई, तमिलनाडु वास्तव्याः श्रीमन्तः वी.राजगोपालघनपाठीवर्या: कृष्णयजुर्वेदस्य (सलक्षणघनान्तस्य) ,श्रौतस्मार्तकर्मस्य, वेदभाष्यस्य, न्यायस्य, मीमांसायाः, वेदान्तस्य, ज्यौतिषस्य च सार्धं वाणिज्यस्य, संघणकयन्त्रस्य च विद्वान्सः सन्ति| राजगोपालवर्या: वेदविहितजीवनाचराणं कुर्वन्तः निरन्तरं स्वकठोर परिश्रमेण अनेकेषां ग्रन्थानाम् अध्ययन-मनन-चिन्तन-पुरस्सरं नवीनग्रन्थानां प्रकाशनं कृतवन्तः सन्ति| भवन्तः सीताराम इति गुरुकुलं संचालयन्तः विगतपञ्चविशतिवर्षेभ्यः वेदाध्यापने समर्पिता:| भवतां कठोरतपश्चर्याया अनेकेषां वैदिकविदुषां सृजनमभवत्रा| जगोपालवर्या: पञ्चाधिकभाषाणां ज्ञातारः सन्ति| राजगोपालवर्या: स्वकठोरतपेन वाराणसी-संस्कृत-अकादमीतः वेदविद्या अलङ्करणम् (१९८६), श्रीगणपतिसच्चिदानन्द-आश्रममैसूरतः प्रज्ञाचक्रपाणी-पुरस्कारेण च सहितं बहुभिः पुरस्कारैः सभाजितः| राजगोपालवर्या: वेदक्षेत्रे उल्लेखनीय-कार्याणि कुर्वाणा स्व-महत्वपूर्णयोगदानं प्रददति |