उत्तमवेदविद्यालयः

वेदाध्यापने सर्वातिशयियोगदानं कृतवतः वेदविद्यालयस्य कृते दीयमानोऽयं पुरस्कारः।

अस्मिन् पुरस्कारान्तर्गते प्रमाणपत्रं, स्मारिका, पदकं, सप्तलक्षरूप्यराशिश्च ७,००,००० प्रदीयते।

अस्य पुरस्कारस्य योग्यताहेतवे अधोनिर्दिष्टाः सर्वे पात्रतामापदण्डाः वेदविद्यालयस्य कृते आवश्यकाः सन्ति-

  • वेदविद्यालय: केन्द्र / राज्यसर्वकारात्, धार्मिकसंस्थायाः, देवालयसंस्थायाः वा प्राप्तानुदान: स्यात् अथवा व्यक्तिगतरूपेण एकाध्यापकेन पोषित: स्यात्।
  • वेदविद्यालय: सनातनश्रुतिपरम्परानुसारं वेदाध्यापनाय समर्पित: स्यात्।
  • वेदविद्यालय: गतविंशतिवत्सरेभ्यः अविछिन्न: प्रचाल्यमान: स्यात्।
  • यदि वेदविद्यालयः सर्वकारेण कयाचित् संस्थया वा अनुदानं प्राप्नोति चेत् वेदविद्यालये न्यूनातिन्यून: एकः वेदाध्यापकः पञ्चवेदविद्यार्थिनश्च भवेयुः, यदि एकलवेदाध्यापकस्य वेदविद्यालय: अथवा कुमाराध्यापकः वर्तते चेत् न्यूनातिन्यून: त्रयः वेदविद्यार्थिनः अपेक्षिताः।
  • वेदविद्यालयेन गतपञ्चवर्षेषु “भारतात्मा-उत्तमवेदविद्यालयपुरस्कारः” न विजितः स्यात्।

भारतात्मापुरस्कारे आवेदनाय अन्तिमदिनाङ्कः ३१ अगस्त २०२५ वर्तते।

आवेदनात् प्राक् इदं सुनिश्चितं कुर्वन्तु यत् भवन्तः आवेदन-सम्बन्धितान् सर्वान् योग्यता-मापदण्डान् ध्यानेन पठित्वा अवगताः।

भारतात्मापुरस्कारस्य उत्कृष्टवेदविद्यार्थी, आदर्शवेदाध्यापकः, उत्तमवेदविद्यालयश्च इति श्रेणीषु आवेदनाय अस्माकम् अन्तर्जालपुटोपरि प्रदत्तेन लिंक इत्यनेन भारतात्मापुरस्कारस्य अन्तर्जालीयं आवेदनं कर्तुमत्र नुदतु।

अन्तर्जालीयम् आवेदनं कर्तुं शक्यते।

अन्तर्जालपुटोपरि आगत्य सर्वप्रथमम् आवेदकेन पञ्जीकरणं करणीयम्। आवेदनात् प्राक् प्रदत्तदिशानिर्देशान् ध्यानेन पठित्वा अवगच्छन्तु।

पञ्जीकरणानन्तरम् “आवेदनम् – भागः – १” इति अन्तिमदिनाङ्कात् दशदिनानि प्रागेव पूरयित्वा समर्पयतु।

“आवेदनम् भागः – १” इति स्वीकृते सति अन्तिमदिनाङ्कात् प्राक् “आवेदनम् भागः – २” इति पुरयन्तु।

अन्तिमदिनाङ्कात् परं प्राप्तानि आवेदनानि अस्मिन् वर्षे चयनप्रक्रियायां समाविष्टानि न भविष्यन्ति।

चयनप्रक्रिया

सिंघलप्रतिष्ठानं प्रत्येकं श्रेण्याः विजेतारं चेतुमेकाम् उत्कर्षशालिनीं निष्पक्षप्रक्रियामाचरति। विजेतृणां निर्णयः चरणद्वयात्मिकया प्रक्रियया भविष्यति। प्रथमचरणे वेदज्ञानां समितिरेका प्राप्तावेदनपत्राणि (अध्यापकानां छात्राणाञ्च नामानि अज्ञातानि भविष्यन्ति) सम्यक् समीक्ष्य सम्भावितविजेतॄणां शोधनं कृत्वा एकां सूचीं निर्मापयिष्यति। एतच्छोधनप्रक्रिया आवेदकैः आवेदनपत्रेषु प्रदत्तसूचनाश्रिता भविष्यति। अतः आवेदनपत्रस्य पूर्णतया सम्यक्तया च परिपूरणम् निर्णायकमस्ति। एतदनु सम्भावितविजेतारः निर्णायकसमित्या (यस्यां सकलवेदानां प्रतिष्ठिताः विशेषज्ञाः भविष्यन्ति) विचारयिष्यन्ते। निर्णायकदलं विजेतॄणां अन्तिमनिर्णयात्पूर्वं चितानां विद्यालयानां भ्रमणं विधाष्यति तथा च चिताध्यापकछात्रैस्सह मेलिष्यति।

पात्रवेदविद्यालयस्य मूल्याङ्कनम् अधस्तनांशान् आधारीकरोति-

  • वेदविद्यालयस्य वेदविद्यार्थिभिः अर्जितवेदाध्ययनविषयिणी उत्कृष्टता।
  • वेदविद्यालयस्य वेदाध्यापकानां योग्यताः अनुभवश्च।
  • प्रप्रदत्तवैदिकशिक्षायाः ( मूलान्ताद् लक्षण-भाष्यादिपर्यन्तम् ) गहनता।
  • वेदविद्यालयेन निर्मितानां वेदाध्यापकानां गुणवत्ता संख्या च।
  • नैकवेदसंहितानां तद्विकृतीनां शास्त्राणाञ्च विस्तारः बोधनञ्च।

यदा भवन्तः पुरस्कारार्थम् आवेदनं करिष्यन्ति, तदा इदं सुनिश्चितं कुर्वन्तु यत् भवन्तः योग्यता-मापदण्डानाम् पूर्तिहेतवे सर्वान् आवश्यकान् अभिलेखान् प्रमाणरूपेण प्रस्तुतवन्तः।

सिंघलफाउण्डेशन इति संस्था प्रत्येकं श्रेण्या: विजेतारं चेतुम् एकां उच्चगुणवत्तायुक्तां निष्पक्षां गोपनीयचयनप्रक्रियाम् अङ्गीकरोति।

  • विजेतॄणां निर्णय: त्रिचरणीयप्रक्रियायाः माध्यमेन भवति।
  • प्रथमचरणे तावत् प्राथमिकस्तरे निर्धारितयोग्यतानां मापदण्डानाञ्च आधारेण प्राप्तावेदनानां समीक्षा क्रियते तथा च योग्यावेदनपत्राणि चीयन्ते।
  • द्वितीयचरणे वेदविशेषज्ञानाम् एका अनुशंसासमितिः भवति। एषा समितिः समीक्षितावेदनपत्राणां (वेदविद्यार्थिनां, वेदाध्यापकानां, वेदविद्यालयानाञ्च नामानि अज्ञातानि भवन्ति।) पुनः समीक्षां करोति तथा च सम्भावितविजेतॄणामेकां सूचीं निर्माति।
  • एतत् सूचीनिर्माणम् आवेदनपत्रे आवेदकैः प्रदात्तानां सूचनानाम् आधारेण भवति। अतः आवेदनपत्रं पूर्णरूपेण सम्यक्प्रकारेण च पूरणीयम् इति अतीव महत्वपूर्णं वर्तते।
  • तदनन्तरं तृतीयचरणे वेदविशेषज्ञानाम् एका अन्या वरिष्ठनिर्णायकसमितिः (जूरी इति) भवति।
  • अस्यां समित्यां सर्ववेदानां प्रतिष्ठितविशेषज्ञाः भवन्ति।
  • अनुशंसासमित्या सम्भाव्यविजेतॄणां या सूची निर्मिता तदुपरि एषा वरिष्ठनिर्णायकसमितिः विचारयति।
  • विजेतॄणां विषये अन्तिमनिर्णयस्य प्राक् वरिष्ठनिर्णायकसमितिः चयनितवेदविद्यालयानाम् निरीक्षणं करोति, चयनितवेदाध्यापकानां वेदविद्यार्थिनाञ्च साक्षात्कारं करोति।

भारतात्मपुरस्कारविजेतॄणां नामानि पुरस्कारवितरणसमये एव उद्घोषितानि भवन्ति, तावत्पर्यन्तं विजेतॄणां नामानि गोपनीयानि भवन्ति।