
श्री-दत्तात्रेय-वेदविद्या-गुरुकुलम्, राजमहेन्द्रवरम्, आन्ध्रप्रदेशः
पत्रसङ्केतः– वेद-गोदावरी मार्गः, सीताराम-अग्रहारम्, कोन्थमुरु, राजमहेन्द्रवरम्, आन्ध्रप्रदेशः
वेद–वेदशाखा च– कृष्णयजुर्वेदः (तैत्तिरीयशाखा)
संस्थापक-नाम– गुल्लपल्ली-श्री-सीतारामचन्द्र-घनपाठीवर्याः
स्थापना-वर्षः– २०००
श्री-दत्तात्रेय-वेदविद्या-गुरुकुलम् आन्ध्रप्रदेशस्य राजमहेन्द्रवरनगरे पुण्य-पवित्र-गोदावरी-नद्याः तीरे स्थितं वर्तते। अस्य वेदविद्यालयस्य स्थापना वेदसेवायां समर्पितैः श्री-गुल्लपल्ली-सीतारामचन्द्र-आञ्जनेय-घनपाठिवर्यैः प्रतिष्ठितानां वैदिकविदुषां पावन-सान्निध्ये कृता। श्री-गुल्लपल्लीवर्याः स्वकीयेन आदर्श-वेदाध्यापनेन “भारतात्मा-अशोकजी-सिंघल-आदर्श-वेदाध्यापक-वेदपुरस्कारः-२०२०” इत्यमुं पुरस्कारं सुशोभितवन्तः।
गुरुकुलेऽस्मिन् विगतेभ्यः पञ्चविंशतिवर्षेभ्यः कृष्णयजुर्वेदस्य तैत्तिरीयशाखायाः साङ्गोपाङ्गं अध्ययनाध्यापनं क्रियमाणं वर्तते। अत्र कृष्णयजुर्वेदस्य ब्राह्मण-आरण्यक-उपनिषद्ग्रन्थानां सहैव संहितायाः पद-क्रम-जटा-घनादयः विकृतिपाठाः, प्रस्थानत्रयी-ग्रन्थाः, श्रौत-स्मार्तग्रन्थाः भाष्यग्रन्था: इत्येतेषां अध्ययन-परम्पराभिः वेदविद्यार्थिनां दीक्षा क्रियमाणा अस्ति।
श्री-गुल्लपल्ली-वर्याः वेदविद्यालय-माध्यमेन वेदविहित-परम्परानुसारं जीवनाचरणाय नित्यानुष्ठानादिकर्मभिः सह वेदाध्ययन-परम्परायाः संरक्षणाय संवर्धनाय च दृढसङ्कल्पिताः सन्ति।
अनेन विद्यालयेन नैकाः घनान्त-विद्वांसः निर्मिताः। एते विद्वांसः सम्प्रति नैकेषु वेदविद्यालयेषु वेदाध्यापने समर्पिताः सन्ति। वेदविद्यालयेऽस्मिन् अध्यापनरताः वेदाध्यापकाः अपि अस्य एव वेदविद्यालयस्य योग्याः वेदवेदविद्यार्थिनः आसन्।
श्री-दत्तात्रेय-वेदविद्या-गुरुकुलं वेदाध्ययनाध्यापने उत्तम-योगदानाय २०२५-वर्षस्य “भारतात्मा-अशोकजीसिंघल-उत्तम-वेदविद्यालय-पुरस्कारः” इत्यनेन अलङ्कृतमस्ति।


