
वेदमूर्तिः श्री-अनन्तकृष्णभट्टः ए॰
जन्मदिनाङ्कः– ३१ मईमासः १९६४
निवासस्थानम्– बेंगलुरू, कर्नाटकः
पितुः नाम– स्वर्गीयाः श्री-नारायण-भट्टवर्याः
मातुः नाम– श्रीमती ललिता
वेद–वेदशाखा च– कृष्णयजुर्वेदः (तैत्तिरीयशाखा)
गुरूणां नामानि– स्वर्गीयाः श्री-नारायणभट्टवर्याः, श्री-विश्वेश्वरभट्टवर्याः, श्री-सुन्दरेशवर्याः, श्रीनिवासरंगाचार्यवर्याः, श्री-वेङ्कटनाथवर्याः, श्री-नारायण-अडिगवर्याः च
गुरूणां नामानि– भारतीतीर्थ-पुरस्कारः (शारदापीठम्, शृङ्गेरी), आस्थान-विद्वत्-सम्मानः (अवधूतदत्तपीठम्, मैसूरु), श्रौतस्मार्तविद्यानिधिः (श्रीरङ्गम्-आण्डवन-आश्रमः), वेदविचक्षणः (दत्तात्रेय-वेदविद्यालयः, राजमहेन्द्रवरम्) इत्यादयः।
श्री-अनन्तकृष्ण-भट्टवर्याः कृष्णयजुर्वेदस्य तैत्तिरीय-शाखायाः सलक्षण-घनान्त-विद्वांसः सन्ति। भवतां जन्म कर्नाटक-प्रान्ते दक्षिण-कन्नड़-जनपदे विटला-सीमाक्षेत्रे अमायि-परिवारे पुरोहित-कुले अभवत्। अनन्तकृष्ण-भट्टवर्याणां पितृचरणाः कृष्णयजुर्वेदस्य तैत्तिरीय-शाखायाः बौधायन-स्मार्त-प्रयोगस्य च उद्भट्ट-विद्वांसः आसन्।
श्री-भट्टवर्यैः प्रारम्भिक-वेदाध्ययनं स्व-पितृचरणात् कृतं तथा च प्राथमिकविद्यालयी-शिक्षा स्वग्रामस्य विद्यालयादेव सम्पादिता। भवन्तः वेदानां गभीर-अध्ययनस्य तीव्र-उत्कण्ठया कर्नाटक-प्रान्तस्य सागर-क्षेत्रे वरदपुरा-नाम्नि पवित्र-भूमौ स्थिते श्रीधर-सङ्घ-वेदविद्यालये प्रविष्टाः। भवन्तः तत्र षड्वर्षाणि यावत् कृष्ण-यजुर्वेदस्य, बौधायन-प्रयोगस्य, काव्यादि-विषयाणाञ्च अध्ययनं श्री-विश्वेश्वर-भट्टगुरूणां सान्निध्ये सम्पादितवन्तः। भवन्तः अनेन सह मैसूरु-विश्वविद्यालयात् स्नातकोत्तरस्य उपाधिम् अपि प्राप्तवन्तः। भवन्तः वेदमूर्तिभ्यां श्रीसुन्दरेश-श्रीनिवासरङ्गाचार्य-गुरुभ्यां क्रम-घनान्तयोः अध्ययनं तथा च श्री-वेङ्क नाथगुरुभिः भाष्याध्ययनं कृतवन्तः।
गुरवः मीमांसाशास्त्रस्यापि विद्वांसः सन्ति। भवन्तः काञ्चीमठे “न्यायप्रकाशः, जैमिनीय-न्यायमाला” इत्यादीनां ग्रन्थानां परीक्षाम् अपि उत्तीर्णवन्तः तथा च महाराजा-संस्कृत-महाविद्यालय-मैसूरु इत्यस्य विद्वान्सः श्री-नारायण-अडिग-गुरुभ्यः पूर्व-मीमांसाशास्त्रस्यापि अध्ययनं कृतवन्तः। भवन्तः स्वस्य छात्र-जीवने स्व-सहपाठिन: अपि अध्यापयन्ति स्म। गुरवः स्वकीयेन वेदज्ञानेन नैकानां छात्राणां जीवनम् आलोकितवन्तः। गुरवः स्वस्य ज्ञानेन अनुभवेन च ग्रन्थानां प्रकाशने संशोधने च अपि स्वस्य योगदानं दत्वा भगवत्याः सरस्वत्याः उपासनां कुर्वन्तः सन्ति। गुरवः “कृष्णयजुर्वेद-मन्त्र-स्वाहाकार-विधिः” ग्रन्थस्य सम्पादन-समित्यां स्वस्य अमूल्य-योगदानं दत्तवन्तः। अनेन सह “बौधायन-अग्निमुखप्रकाशः” “तैत्तिरीयप्रातिशाख्यप्रकाशः” इत्यादयः लोकोपयोगि-ग्रन्थानां प्रकाशनम् अपि कृतवन्तः। सम्प्रति श्रीचरणाः कर्नाटक-प्रान्तस्य बेंगलुरू-महानगरे वेदाध्यापनस्य परम्परायाः सेवायां समर्पिताः सन्ति। भगवान् श्री-वेदनारायण: भवन्तं दीर्घायुष्यं प्रददातु इति प्रार्थयामः।
वेदमूर्तयः श्री-अनन्तकृष्ण-भट्टवर्या: आदर्श-वेदाध्यापनाय २०२५ वर्षस्य “भारतात्मा-अशोकजीसिंघल-आदर्श-वेदाध्यापक-पुरस्कारः” इत्यनेन सभाजिताः सन्ति।


