अनुशंसा

सिंघलप्रतिष्ठानेन ज्ञायते यद् बहवः वेदाध्यापका: वेदाध्यापनं स्वधर्मम् इति मत्वा वेदसेवायां समर्पिताः किन्तु तैः पुरस्कारार्थम् आवेदनं न क्रियते। वयं एतादृशान् पूर्णरूपेण वेदाध्यापने समर्पितान् आचार्यान् अपि भारतात्मापुरस्कारचयनप्रक्रियया योक्तुमिच्छामः। भारतात्मापुरस्कारस्य अष्टमशृंखलायां (२०२ तमवर्षस्य) आदर्शवेदाध्यापकश्रेण्यां योग्यनाम्नाम् अनुशंसाया: प्रावधानमपि विहितमस्ति। यः कोऽपि वैदिकविद्वान् वा वेदविद्यार्थी पुरस्कारार्थं वेदाध्यापकश्रेण्यां निर्धारितदण्डानां पूरयितुः स्ववेदाध्यापकस्य वैदिकविदुषः वा नाम-संपर्कसंकेतादिकञ्च सिंघलप्रतिष्ठानस्य पार्श्वे ई-मेल वा SMS माध्यमेन १जुलाईतः १५ अगस्त २०२५ पर्यन्तं प्रेषयितुं शक्नोति। वयम् अनुशंसिताचार्येण सह संपर्कं विधाय आवेदनं प्राप्तुं यतिष्यामहे।