भारतात्मापुरस्कारस्य विजेतॄणाम् नामानि घोषयन्तः अत्यन्तं मुदिताः वयम्। सर्वेभ्यः विजेतृभ्यः वर्धापनानि शुभाशयाः च।
अष्टमभारतात्मापुरस्कारवितरणसमारोहः उत्तरप्रदेशे अयोध्यायां कारसेवापुरे ०५ सितम्बर २०२५ इति दिनाङ्के आयोजित: अभवत्।
भारतात्मापुरस्कार-विजेतारः
वेदमूर्तयः श्री आर॰चन्द्रमौलिश्रौतिमहाभागाः, उत्तरप्रदेशस्य मुख्यमन्त्रिणः स्वामी-श्रीयोगी-आदित्यनाथमहाभागस्य करकमलाभ्यां भारतात्मा-आदर्शवेदाध्यापक-पुरस्कारं स्वीकुर्वन्तः ।

वेदमूर्तयः श्रीनारायणलालशर्माणः, उत्तरप्रदेशस्य मुख्यमन्त्रिणः स्वामी-श्रीयोगी-आदित्यनाथमहाभागस्य करकमलाभ्यां भारतात्मा-उत्कृष्टवेदविद्यार्थी-पुरस्कारं स्वीकुर्वन्तः।