भारतात्मा-पुरस्कारः – २०२६

आवेदनप्रक्रिया: १ मार्चतः ३० जून २०२६ पर्यन्तम्

भारतात्मापुरस्कारारस्य अन्तर्जालीय-आवेदननार्थं अत्र क्लिक इति कुर्वन्तु।

भारतात्मा-पुरस्कारः – २०२६ इति २०२६ तमवर्षस्य नवम्बरमासे पञ्चदशदिनाङ्के बुधवासरे प्रदास्यन्ते।

 

पर्यावरणसंरक्षणार्थं भारतात्मा-पुरस्कारस्य विवरणिका अस्मिन् वर्षे न मुद्रयिष्यते। अतः कस्मैचिदपि पत्राचारमाध्यमेन मुद्रितविवरणिका न प्रेषयिष्यते। पुरस्कार-विवरणिकायाः मृदुप्रतिः (अङ्कीयप्रारूपं वा) अन्तर्जालपुटे उपलब्धा वर्तते। तथा च भारतात्मा-पुरस्काराय केवलम् अन्तर्जालीय-आवेदनप्रक्रिया एव मान्या भविष्यति।

भारतात्मापुरस्कारः

भारतात्मा-पुरस्कारस्य मुख्योद्देश्य: वेदानां वैदिकशिक्षायाश्च प्रोत्साहनं वर्तते। तादृश्यः बह्व्यः संस्थाः सन्ति याः वेदानां, वैदिकशिक्षायाः, वेदविद्यार्थिनां च गौरवाय प्रयतन्ते, किन्तु राष्ट्रियस्तरे अस्मिन् क्षेत्रे अद्यापि अधिकं कार्यं न जातम्। परमश्रद्धेयाः स्वर्गीयाः श्रीअशोकसिंघलमहाभागाः वेदप्रचार-प्रसाराय स्वजीवनं समर्पितवन्तः। तेषामेव प्रयासान् जीवन्तं रक्षितुं ‘भारतात्मा-पुरस्कारः’ एकः स्तुत्यः प्रयत्नः अस्ति।

एते पुरस्काराः त्रिषु श्रेणीषु प्रदीयन्ते –

  • आदर्श-वेदाध्यापकः
  • उत्कृष्ट-वेदविद्यार्थी
  • उत्तम-वेदविद्यालयः

वयं आशास्महे यत् भारतात्मा-पुरस्काराः लोककल्याणार्थं भारतीयवैदिकज्ञानपरम्परायाः अध्ययन-अध्यापनाय, संरक्षण-संवर्धनाय च वेदविद्यालयान्, वेदाध्यापकान्, वेदविद्यार्थिनश्च निरन्तरं प्रोत्साहयिष्यन्ति।

विजेतारः- २०२५

आदर्श-वेदाध्यापकः श्री-अनन्तकृष्णभट्टः ए॰

आवेदनम् – भारतात्मापुरस्कारः – २०२६



आदर्शवेदाध्यापकः

2018 पुरस्कारार्थम् आवेदनम्



उत्कृष्टवेदविद्यार्थी

2018 पुरस्कारार्थम् आवेदनम्



उत्तमवेदविद्यालयः