भारतात्मा-पुरस्कार-विजेतॄणां नामानि घोषयन्तः अत्यन्तं मुदिता: वयम्। सर्वेभ्यः विजेतृभ्यः वर्धापनानि शुभाशयाः च।
नवम-भारतात्मा-पुरस्कार-वितरणसमारोह: १७/११/२०२५ दिनाङ्के, शिवाजीनगरे, पुण्यपत्तने, महाराष्ट्रप्रदेशे आयोजितः अभवत्।
भारतात्मापुरस्कार-विजेतारः
वेदमूर्तिः श्री-अनन्तकृष्णभट्टः ए॰, परमपूज्य-आचार्य-श्रीप्रद्युम्नजी-महाराजानां पावन-करकमलेभ्यः ‘भारतात्मा-आदर्श-वेदाध्यापक-पुरस्कारं’ स्वीकुर्वन्तः।
वेदमूर्तिः श्री-नोरि-केदारेश्वर-शर्मा, परमपूज्य-आचार्य-श्रीप्रद्युम्नजी-महाराजानां पावन-करकमलेभ्यः ‘भारतात्मा-उत्कृष्ट-वेदविद्यार्थी-पुरस्कारं’ स्वीकुर्वन्तः।
श्री-दत्तात्रेय-वेदविद्या-गुरुकुलम्, राजमहेन्द्रवरम्, परमपूज्य-आचार्य-श्रीप्रद्युम्नजी-महाराजानां पावन-करकमलेभ्यः ‘भारतात्मा-उत्तम-वेदविद्यालय-पुरस्कारं’ लभमानम्।



